|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.364. अध्यायः 364
Mahabharata - Shanti Parva - Chapter Topics
श्रेयःसाधनं पृष्टेनातिथिना ब्राह्मणंप्रति नानामार्गप्रदर्शनपूर्वकं स्वस्यापि संशयोत्कीर्तनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
ब्राह्मण उवाच। 12-364-0x(6657)(80580)
समुत्पन्ने विधानेऽस्मिन्वाङ्भाधुर्येण तेऽनघ।
मित्रत्वमभिसंपन्नः किंचिद्वक्ष्यामि तच्छृणु॥ 12-364-1(80581)
गृहस्थधर्मं विप्रेन्द्र श्रुत्वा धर्मगतं त्वहम्।
धर्मं परमकं कुर्यां को हि मार्गो भवेद्द्विज॥ 12-364-2(80582)
अहमात्मानमास्थाय एक एवात्मनि स्थितम्।
द्रष्टुमिच्छन्न पश्यामि बद्धः साधारणैर्गुणैः॥ 12-364-3(80583)
यावदेतदतीतं मे वयः पुत्रफलाश्रितम्।
तावदिच्छामि पाथेयमादातुं पारलौकिकम्॥ 12-364-4(80584)
अस्मिन्हि लोकसंभारे परं पारमभीप्सतः।
उत्पन्ना मे मतिरियं कुतो धर्ममयः प्लवः॥ 12-364-5(80585)
संयुज्यमानानि निशाम्य लोके
निर्यात्यमानानि च सात्विकानि।
दृष्ट्वा तु धर्मध्वजकेतुमालां
प्रकीर्यमाणामुपरि प्रजानाम्॥ 12-364-6(80586)
न मे मनो रज्यति भोगरागै
र्दृष्ट्वा गतिं प्रार्थयतः परत्र।
तेनातिथे बुद्धिबलाश्रयेण
धर्मेण धर्मे विनियुङ्क्ष्व मां त्वम्॥ 12-364-7(80587)
सोऽतिथिर्वचनं तस्य श्रुत्वा धर्माभिभाषिणः।
प्रोवाच वचनं श्लक्षणं प्राज्ञो मधुरया गिरा॥ 12-364-8(80588)
अहमप्यत्र मुह्यामि ममाप्येष मनोरथः।
न च संनिश्चयं चामि बहुद्वारे त्रिविष्टये॥ 12-364-9(80589)
केचिन्मोक्षं प्रशंसन्ति केचिद्यज्ञफलं द्विजाः।
वानप्रस्थाश्रयाः केचिद्गार्हस्थ्यं केचिदाश्रिताः॥ 12-364-10(80590)
राजधर्माश्रयाः केचित्केचिदात्मफलाश्रयाः।
गुरुधर्माश्रयाः केचित्केचिद्वाक्संयमाश्रयाः॥ 12-364-11(80591)
मातरं पितरं केचिच्छुश्रूषन्तो दिवं गताः।
अहिंसया परे स्वर्गं सत्येन च तथाऽपरे॥ 12-364-12(80592)
आहवेऽभिमुखः केचिन्निहतास्त्रिदिवं गताः।
केचिदुञ्छव्रतैः सिद्धाः स्वर्गमार्गं समाश्रिताः॥ 12-364-13(80593)
केचिदध्ययने युक्ता वेदव्रतपराः शुभाः।
बुद्धिमन्तो गताः स्वर्गं तुष्टात्मानो जितेन्द्रियाः॥ 12-364-14(80594)
आर्जवेनापरे युक्ता निहतानार्जवैर्जनैः।
ऋजवो नाकपृष्ठे वै शुद्धात्मानः प्रतिष्ठिताः॥ 12-364-15(80595)
एवं बहुविधैर्लोकैर्धर्मद्वारैरनावृतैः।
ममापि मतिराविद्धा मेघलेखेव वायुना॥ ॥ 12-364-16(80596)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुःषष्ट्यधिकत्रिशततमोऽध्यायः॥ 364॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-364-1 समुत्पन्नाभिधानोस्मीति झ. पाठः। तत्र आभिधानी बन्धनरज्जुः। अश्वाभिधानीमादत्त इति ब्राह्मणात्। तेनाभिधानशब्दोपि बन्धनवाची। जातबन्धन इत्यर्थः॥ 12-364-2 कृत्वा पुत्रगतं त्वहमिति झ. पाठः॥ 12-364-5 कुतः कृत्राश्रमे। प्लवः संसाराब्धितरणसाधनम्॥ 12-364-6 निशाम्य आलोच्य। निर्गात्यमानानि निपीड्यमानाति। सात्विकानि देवादीनि। धर्मस्य यमस्य ध्वजाः पताका दण्डोपमा रोगादयस्तेषां माला संततिस्तां दृष्ट्वा मे मनो न रज्यतीत्युत्तरेण संबन्धः। समूह्यमानानि यथा हि लोके निहन्यमानानि तथाहि तानि इति।प्रकीर्यमाणानीति च. ट. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|